|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.276. अध्यायः 276
Mahabharata - Vana Parva - Chapter Topics
मुनिवरेण विश्रवसा भार्यात्रये रावणादीनामुत्पादनम् ॥ 1 ॥ सानुजेन रावणेन तपस्तोषितस्य ब्रह्मणो वरात्पुष्पका पहरणपूर्वकं कुबेरस्य निष्कासनेन लङ्कायां निवासः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-276-0x(2689)(26483)
पुलस्त्यस् तु यः क्रोधादर्धदेहोऽभवन्मुनिः।
विश्रवानाम सक्रोधं पितरं राक्षसेश्वरः। 3-276-1(26484)
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः।
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ॥ 3-276-2(26485)
स राजराजो लङ्कायां न्यवसन्नरवाहनः।
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥ 3-276-3(26486)
ताः सदा तं महात्मानं संतोषयितुमुद्यताः।
ऋषिं भरतशार्दूल नृत्यगीतविशारदाः ॥ 3-276-4(26487)
पुष्पोत्कटा च राका च मालिनी च विशांपते।
अन्योन्यस्पर्धयाराजञ्श्रेयस्कामाः सुमध्यमाः ॥ 3-276-5(26488)
स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान्।
लोकपालोपमान्पुत्रानकैकस्या यथेप्सितान् ॥ 3-276-6(26489)
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ।
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥ 3-276-7(26490)
मालिन जनयामास पुत्रमेकं विभीषणम्।
राकार्या मिथुनं जज्ञे खरः शूर्पणखा तथा ॥ 3-276-8(26491)
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्।
स बभूव महाभागो धर्मगोप्ता क्रियारतिः ॥ 3-276-9(26492)
दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः।
महोत्साहो महावीर्यो महासत्वपराक्रमः ॥ 3-276-10(26493)
कुम्भकर्णओ बलेनासीत्सर्वेभ्योऽभ्यधिको युधि।
मायावी रणशौण्डश्चरौद्रश्च रजनीचरः ॥ 3-276-11(26494)
खरो धनुषि विक्रान्तो ब्रह्मद्विट् पिशिताशनः।
सिद्धविघ्नकरी चापि रौद्री शूर्पणखा तदा ॥ 3-276-12(26495)
सर्वे वेदविदः शूराः सर्वेसुचरितव्रताः।
ऊषुः पित्रा सह रता गन्धमादनपर्वते ॥ 3-276-13(26496)
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्।
पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ॥ 3-276-14(26497)
जातामर्षास्ततस्ते तु तपसे धृतनिश्चयाः।
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ॥ 3-276-15(26498)
अतिष्ठदेकपादेन सहस्रं परिवत्सरान्।
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ॥ 3-276-16(26499)
अधःशायी कुम्भकर्णो यताहारो यतव्रतः।
विभीषणः शीर्णपर्णमेकमभ्यवहारयन् ॥ 3-276-17(26500)
उपवासरतिर्धीमान्सदा जप्यपरायणः।
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ॥ 3-276-18(26501)
स्वरः शूर्पणखा चैव तेषां वै तप्यतां तपः।
परिचर्यां च रक्षां च चक्रतुर्हष्टमानसौ ॥ 3-276-19(26502)
पूर्णे वर्षसहस्रेतु शिरश्छित्त्वा दशाननः।
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ॥ 3-276-20(26503)
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत्।
प्रलोभ्यवरदानेन सर्वानेवपृथक्पृथक् ॥ 3-276-21(26504)
ब्राह्मोवाच। 3-276-22x(2690)
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः।
यद्यदिष्टमृते त्वेकममरत्वं तथाऽस्तु तत् ॥ 3-276-22(26505)
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया।
तथैव तानि ते देहे भविष्यन्ति यथेप्सया ॥ 3-276-23(26506)
वैरूप्यं च न ते देहे कामरूपधरस्तथा।
भविष्यसि रणेऽरीणां विजेता न च संशयः ॥ 3-276-24(26507)
रावण उवाच। 3-276-25x(2691)
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा।
सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ॥ 3-276-25(26508)
ब्रह्मोवाच। 3-276-26x(2692)
य एते कीर्तिताः सर्वे न तेभ्योस्ति भयं रतव।
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ॥ 3-276-26(26509)
मार्कण्डेय उवाच। 3-276-27x(2693)
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा।
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ॥ 3-276-27(26510)
कुम्भकर्णमथोवाच तथैव प्रपितामहः।
`वरं वृणीष्व भद्रं ते प्रीतोस्मीति पुनःपुनः'।
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ॥ 3-276-28(26511)
तथाभविष्यतीत्युक्त्वा विभीषणमुवाच ह।
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनःपुनः ॥ 3-276-29(26512)
विभीषण उवाच। 3-276-29x(2694)
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्।
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ॥ 3-276-30(26513)
ब्रह्मोवाच। 3-276-31x(2695)
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन।
नाधर्मे धीयते बुद्धिरमरत्वं ददानि ते ॥ 3-276-31(26514)
मार्कण्डेय उवाच। 3-276-32x(2696)
राक्षसस्तु वरंलब्ध्वा दशग्रीवो विशांपते।
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ॥ 3-276-32(26515)
हित्वास भगवाँल्लङ्कामाविशद्गन्धमादनम्।
गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह ॥ 3-276-33(26516)
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः।
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ॥ 3-276-34(26517)
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति।
अवमत्य गुरुं मां च क्षिप्रं त्वंनभविष्यसि ॥ 3-276-35(26518)
विभीषणस्तु धर्मात्मा सतां मार्गमनुस्मरन्।
अन्वगच्छन्महाराज श्रिया परमया युतः ॥ 3-276-36(26519)
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः।
सैनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ॥ 3-276-37(26520)
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः।
सर्वे समेत्य राजानमभ्यषिञ्चन्दशाननम् ॥ 3-276-38(26521)
दशग्रीवश्चदैत्यानां दानवानां बलोत्कटः।
आक्रम्य रत्नान्यहरत्कामरूपी विहंगम ॥ 3-276-39(26522)
रावयामास लोकान्यत्तस्माद्रावण उच्यते।
दशग्रीवः कामबलो देवानां भयमादधत् ॥ 3-276-40(26523)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि ,ट्सप्तत्यधिकद्विशततमोऽध्यायः ॥ 276 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-276-2 पितरं विश्रवसम्। राक्षसेक्श्वरः कुबेरो रक्षःपुरीनायकत्वात् ॥ 3-276-5 पुष्पोत्कटा बलाका च इति ध. पाठः ॥ 3-276-13 पित्रा विश्रवसा ॥ 3-276-16 पञ्चदिक्षु चत्वार एकः सूर्य इतिपञ्चानामग्नीनां म्यगः पञ्चाग्निः ॥ 3-276-17 विभीषणस्तपोऽतिष्ठदित्युत्तरेणान्वयः ॥ 3-276-23 महदीप्सया श्रेष्ठपदापेक्षया ॥ 3-276-35 रनभविष्यसि मरिष्यसि ॥ 3-276-36 अन्वगच्छत् कुबेरमिति शेषः ॥ 3-276-39 रत्नानि जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते। विहंगमः खेचरः ॥ 3-276-40 रावयामास हिंसार्थस्य रुहो रूपमिदम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|