(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.276. अध्यायः 276
Mahabharata - Vana Parva - Chapter Topics
मुनिवरेण विश्रवसा भार्यात्रये रावणादीनामुत्पादनम् ॥ 1 ॥ सानुजेन रावणेन तपस्तोषितस्य ब्रह्मणो वरात्पुष्पका पहरणपूर्वकं कुबेरस्य निष्कासनेन लङ्कायां निवासः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-276-0x(2689)(26483)
पुलस्त्यस् तु यः क्रोधादर्धदेहोऽभवन्मुनिः।
विश्रवानाम सक्रोधं पितरं राक्षसेश्वरः। 3-276-1(26484)
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः।
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ॥ 3-276-2(26485)
स राजराजो लङ्कायां न्यवसन्नरवाहनः।
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥ 3-276-3(26486)
ताः सदा तं महात्मानं संतोषयितुमुद्यताः।
ऋषिं भरतशार्दूल नृत्यगीतविशारदाः ॥ 3-276-4(26487)
पुष्पोत्कटा च राका च मालिनी च विशांपते।
अन्योन्यस्पर्धयाराजञ्श्रेयस्कामाः सुमध्यमाः ॥ 3-276-5(26488)
स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान्।
लोकपालोपमान्पुत्रानकैकस्या यथेप्सितान् ॥ 3-276-6(26489)
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ।
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥ 3-276-7(26490)
मालिन जनयामास पुत्रमेकं विभीषणम्।
राकार्या मिथुनं जज्ञे खरः शूर्पणखा तथा ॥ 3-276-8(26491)
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्।
स बभूव महाभागो धर्मगोप्ता क्रियारतिः ॥ 3-276-9(26492)
दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः।
महोत्साहो महावीर्यो महासत्वपराक्रमः ॥ 3-276-10(26493)
कुम्भकर्णओ बलेनासीत्सर्वेभ्योऽभ्यधिको युधि।
मायावी रणशौण्डश्चरौद्रश्च रजनीचरः ॥ 3-276-11(26494)
खरो धनुषि विक्रान्तो ब्रह्मद्विट् पिशिताशनः।
सिद्धविघ्नकरी चापि रौद्री शूर्पणखा तदा ॥ 3-276-12(26495)
सर्वे वेदविदः शूराः सर्वेसुचरितव्रताः।
ऊषुः पित्रा सह रता गन्धमादनपर्वते ॥ 3-276-13(26496)
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्।
पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ॥ 3-276-14(26497)
जातामर्षास्ततस्ते तु तपसे धृतनिश्चयाः।
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ॥ 3-276-15(26498)
अतिष्ठदेकपादेन सहस्रं परिवत्सरान्।
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ॥ 3-276-16(26499)
अधःशायी कुम्भकर्णो यताहारो यतव्रतः।
विभीषणः शीर्णपर्णमेकमभ्यवहारयन् ॥ 3-276-17(26500)
उपवासरतिर्धीमान्सदा जप्यपरायणः।
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ॥ 3-276-18(26501)
स्वरः शूर्पणखा चैव तेषां वै तप्यतां तपः।
परिचर्यां च रक्षां च चक्रतुर्हष्टमानसौ ॥ 3-276-19(26502)
पूर्णे वर्षसहस्रेतु शिरश्छित्त्वा दशाननः।
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ॥ 3-276-20(26503)
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत्।
प्रलोभ्यवरदानेन सर्वानेवपृथक्पृथक् ॥ 3-276-21(26504)
ब्राह्मोवाच। 3-276-22x(2690)
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः।
यद्यदिष्टमृते त्वेकममरत्वं तथाऽस्तु तत् ॥ 3-276-22(26505)
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया।
तथैव तानि ते देहे भविष्यन्ति यथेप्सया ॥ 3-276-23(26506)
वैरूप्यं च न ते देहे कामरूपधरस्तथा।
भविष्यसि रणेऽरीणां विजेता न च संशयः ॥ 3-276-24(26507)
रावण उवाच। 3-276-25x(2691)
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा।
सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ॥ 3-276-25(26508)
ब्रह्मोवाच। 3-276-26x(2692)
य एते कीर्तिताः सर्वे न तेभ्योस्ति भयं रतव।
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ॥ 3-276-26(26509)
मार्कण्डेय उवाच। 3-276-27x(2693)
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा।
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ॥ 3-276-27(26510)
कुम्भकर्णमथोवाच तथैव प्रपितामहः।
`वरं वृणीष्व भद्रं ते प्रीतोस्मीति पुनःपुनः'।
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ॥ 3-276-28(26511)
तथाभविष्यतीत्युक्त्वा विभीषणमुवाच ह।
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनःपुनः ॥ 3-276-29(26512)
विभीषण उवाच। 3-276-29x(2694)
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्।
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ॥ 3-276-30(26513)
ब्रह्मोवाच। 3-276-31x(2695)
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन।
नाधर्मे धीयते बुद्धिरमरत्वं ददानि ते ॥ 3-276-31(26514)
मार्कण्डेय उवाच। 3-276-32x(2696)
राक्षसस्तु वरंलब्ध्वा दशग्रीवो विशांपते।
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ॥ 3-276-32(26515)
हित्वास भगवाँल्लङ्कामाविशद्गन्धमादनम्।
गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह ॥ 3-276-33(26516)
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः।
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ॥ 3-276-34(26517)
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति।
अवमत्य गुरुं मां च क्षिप्रं त्वंनभविष्यसि ॥ 3-276-35(26518)
विभीषणस्तु धर्मात्मा सतां मार्गमनुस्मरन्।
अन्वगच्छन्महाराज श्रिया परमया युतः ॥ 3-276-36(26519)
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः।
सैनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ॥ 3-276-37(26520)
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः।
सर्वे समेत्य राजानमभ्यषिञ्चन्दशाननम् ॥ 3-276-38(26521)
दशग्रीवश्चदैत्यानां दानवानां बलोत्कटः।
आक्रम्य रत्नान्यहरत्कामरूपी विहंगम ॥ 3-276-39(26522)
रावयामास लोकान्यत्तस्माद्रावण उच्यते।
दशग्रीवः कामबलो देवानां भयमादधत् ॥ 3-276-40(26523)

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि ,ट्सप्तत्यधिकद्विशततमोऽध्यायः ॥ 276 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-276-2 पितरं विश्रवसम्। राक्षसेक्श्वरः कुबेरो रक्षःपुरीनायकत्वात् ॥ 3-276-5 पुष्पोत्कटा बलाका च इति ध. पाठः ॥ 3-276-13 पित्रा विश्रवसा ॥ 3-276-16 पञ्चदिक्षु चत्वार एकः सूर्य इतिपञ्चानामग्नीनां म्यगः पञ्चाग्निः ॥ 3-276-17 विभीषणस्तपोऽतिष्ठदित्युत्तरेणान्वयः ॥ 3-276-23 महदीप्सया श्रेष्ठपदापेक्षया ॥ 3-276-35 रनभविष्यसि मरिष्यसि ॥ 3-276-36 अन्वगच्छत् कुबेरमिति शेषः ॥ 3-276-39 रत्नानि जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते। विहंगमः खेचरः ॥ 3-276-40 रावयामास हिंसार्थस्य रुहो रूपमिदम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.